देवीसूक्त : या देवी सर्वभूतेषु
देवीसूक्त : या देवी सर्वभूतेषु
।। अथ देवीसूक्त्तम् ।।ॐ अहं रुद्रेभिर्वसुभिश्वराम्यह-मादित्यैरुत विश्वदेवैः ।अहं मित्रावरुणोभा बिभर्म्यह-मिन्द्राग्नी अहमश्विनोभा ।। १।।अहं सोममाहनसं बिभम्र्यहं त्वष्टारमुत पूषणं भगम् ।अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ।। २।।अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ।। ३।।मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ।। ४।।अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।यं कामये तं तमुग्रं कृष्णोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।। ५।।अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।अहं जनाय समदं कृष्णोम्यहं द्यावापृथिवी आ विवेश ।। ६।।अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।ततो वि तिष्टे भुवनानु विश्वो-तामूं द्यां वर्ष्मणोप स्पृशामि ।। ७।।अहमेव वात इव प्र वाम्या-रभमाणा भुवनानि विश्वा ।परो दिवा पर एना पृथिव्यै-तावती महिना सं बभूव ।। ८।।।। इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ।।