मयूरेश स्तोत्रं Mayuresh Strotam

मयूरेश स्तोत्रं
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ।
मायाविनं दुर्विभाव्यं मयूरेशं नमामा्यहम् ॥ १ ॥
परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् ।
गुणातीतं गुनमयं मयूरेशं नमामा्यहम् ॥ २ ॥
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।
सर्वविघ्नहरं देवं मयूरेशं नमामा्यहम् ॥ ३ ॥
नानादैत्यनिहन्तारं नानारुपाणि बिभ्रतम् ।
नानायुधधरं भक्त्या मयूरेशं नमामा्यहम् ॥ ४ ॥
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।
सदसद्व्यक्तमव्यक्तं मयूरेशं नमामा्यहम् ॥ ५ ॥
सर्वशक्तिमयं देवं सर्वरुपधरं विभुम् ।
सर्वविद्याप्रवक्तारं मयूरेशं नमामा्यहम् ॥ ६ ॥
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।
भक्तानन्दकरं नित्यं मयूरेशं नमामा्यहम् ॥ ७ ॥
मुनिध्येयं मुनिनुतं मुनिकामप्रपुरकम् ।
समष्टिव्यष्टिरुपं त्वां मयूरेशं नमामा्यहम् ॥ ८ ॥
सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।
सत्यज्ञानमयं सत्यं मयूरेशं नमामा्यहम् ॥ ९ ॥
अनेककोटिब्रह्माण्डनायकं जगदीश्र्वरम् ।
अनन्तविभवं विष्णुं मयूरेशं नमामा्यहम् ॥ १० ॥
मयूरेश उवाच
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् ।
सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम् ॥ ११ ।
कारागृहगतानां च मोचनं दिनसप्तकात् ।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥ १२॥
॥ इति श्रीमयूरेशस्तोत्रं संपूर्णम् ॥